|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.66. अध्यायः 066
Mahabharata - Vana Parva - Chapter Topics
सुदेवेन दमयन्तीतत्वं निवेदितया राजमात्रा पिप्लुरूपलाञ्छनेन तत्वनिर्धारणपूर्वकं तस्याः पितृपुरंप्रति प्रापणम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
सुदेव उवाच। 3-66-0x(1945)(18454)
विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः।
सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता ॥ 3-66-1(18455)
राजा तु नैषधो नाम वीरसेनसुतो नलः।
भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः ॥ 3-66-2(18456)
स द्यूतेन जितो भ्रात्रा हृतराज्यो महामनाः।
दमयन्त्या गतः सार्धं न प्राज्ञायत कस्यचित् ॥ 3-66-3(18457)
ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम्।
सेयमासादिता बाला तव देवि निवेशने ॥ 3-66-4(18458)
अस्या रूपेण सदृशी मानुषी न हि विद्यते।
अस्या ह्येष भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः ॥ 3-66-5(18459)
श्यामायाः पद्मसंकाशो लक्षितोऽन्तर्हितो मया।
मलेन संवृतोह्यस्याश्छन्नोऽभ्रेणेव चन्द्रमाः ॥ 3-66-6(18460)
चिह्नभूतो विभूत्यर्थमयं धात्रा विनिर्मितः।
प्रतिपत्कलुषेवेन्दोर्लेखा नातिविराजते ॥ 3-66-7(18461)
न चास्या नश्यते रूपं वपुर्मलसमाचितम्।
असंस्कृतमपि व्यक्तं भाति काञ्चनसन्निभम् ॥ 3-66-8(18462)
अनेन वपुषा बाला पिप्लुनाऽनेन सूचिता।
लक्षितेयं मया देवी पिहितोऽग्निरिवोष्मणा ॥ 3-66-9(18463)
बृहदश्व उवाच। 3-66-10x(1946)
तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशांपते।
सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम् ॥ 3-66-10(18464)
स मलेनापकृष्टन पिप्लुस्तस्या व्यरोचत।
दमयन्त्या यथा व्यभ्रे नभसीव निशाकरः ॥ 3-66-11(18465)
पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत।
रुदन्त्यौ तां परिष्वज्यमुहूर्तमिव तस्थतुः ॥ 3-66-12(18466)
उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत्।
भगिन्या दुहिता मेऽसि पिप्लुनानेन सूचिता ॥ 3-66-13(18467)
अहं च तव माता च राजन्यस्य महात्मनः।
सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने ॥ 3-66-14(18468)
भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः।
त्वं तु जाता मया दृष्टा दशार्णेषु पितुर्गृहे ॥ 3-66-15(18469)
यथैव ते पितुर्गेहं तथेदमपि भामिति।
यथैव च ममैश्वर्यं दमयन्ति तथा तव ॥ 3-66-16(18470)
तां प्रहृष्टेन मनसा दमयन्ती विशांपते।
प्रणम्य मातुर्भगिनीमिदं वचनमब्रवीत् ॥ 3-66-17(18471)
अज्ञायमानाऽपिसती सुखमस्म्युषिता त्वयि।
सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया ॥ 3-66-18(18472)
सुखात्सुखतरो वासो भविष्यति न संशयः।
चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि ॥ 3-66-19(18473)
दारकौ च हि मे नीतौ वसतस्तत्र बालकौ।
पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ ॥ 3-66-20(18474)
यदि चापि प्रियं किंचिन्मयि कर्तुमिहेच्छसि।
विदर्भान्यातुमिच्छामि शीघ्रं मे यानमादिश ॥ 3-66-21(18475)
बाढमित्येव तामुक्त्वा हृष्ट्वा मातृष्वसा नृप।
गुप्तां बलेन महता पुत्रस्यानुमते ततः ॥ 3-66-22(18476)
प्रास्थापयद्राजमाता श्रीमतीं नरवाहिना।
यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम् ॥ 3-66-23(18477)
ततः सा नचिरादेव विदर्भानगमच्छुभा।
तां तु बन्धुजनः सर्वः प्रहृष्टः समपूजयत् ॥ 3-66-24(18478)
सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकौ च तौ।
मातरं पितरं चोभौ सर्वं चैव सखीजनम् ॥ 3-66-25(18479)
देवताः पूजयामास ब्राह्मणांश्च यशस्विनी।
परेण विधिना देवी दमयन्ती विशांपते ॥ 3-66-26(18480)
अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः।
प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च ॥ 3-66-27(18481)
सा व्युष्टा रजनीं तत्रपितुर्वेश्मनि भामिनी।
विश्रान्ता मातरं राजन्निदं वचनमब्रवीत् ॥ 3-66-28(18482)
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि षट्षष्टितमोऽध्यायः ॥ 66 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-66-5 पिप्लुः रक्ततिलकाकृतिलाञ्छनम् ॥ 3-66-6 स दृष्टो बहुशो नाद्य लक्ष्यतेऽन्तर्हितो मयेति क. पाठः ॥ 3-66-7 चिह्नभूतः सचात्यर्थमिति ध. पाठः ॥ 3-66-8 अस्यास्तु दृश्यते रूपमिति ध. पाठः ॥ 3-66-11 अपकृष्टेन दूरीकृतेन ॥ 3-66-20 दारकौ सुतः सुता च ॥ 3-66-28 व्युष्टा वासंकृतवती ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|